|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.170. अध्यायः 170
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तीर्थशौचनिरूपणम्॥ 1॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि॥ 13-170-1(88252)
भीष्म उवाच। 13-170-2x(7373)
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः॥ 13-170-2(88253)
अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे।
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम्॥ 13-170-3(88254)
तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम्।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः॥ 13-170-4(88255)
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः।
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते॥ 13-170-5(88256)
नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम्।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः॥ 13-170-6(88257)
रजस्तमःसत्वमथो येषां निर्धूतमात्मना।
तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम्। 13-170-7(88258)
सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः।
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च॥ 13-170-8(88259)
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः॥ 13-170-9(88260)
अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा॥ 13-170-10(88261)
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः।
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता॥ 13-170-11(88262)
वृत्तं शौचं महाशौचं तीर्थशौचमतः परम्।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम्॥ 13-170-12(88263)
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च।
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः॥ 13-170-13(88264)
समारोपितशौचस्तु नित्यं भवसमन्वितः।
केवलं गुणसम्पन्नः शुचिरेव नरः सदा॥ 13-170-14(88265)
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि॥ 13-170-15(88266)
शरीरस्य यथोद्देशः शरीरोपरि निर्मिताः।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च॥ 13-170-16(88267)
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात्।
शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम्। 13-170-17(88268)
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा॥ 13-170-18(88269)
मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात्॥ 13-170-19(88270)
यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता।
नेह साधयते कार्यं समायुक्ता तु सिध्यति॥ 13-170-20(88271)
एवं शरीरशौचेन तीर्थशौचेन चान्वितः।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्॥ ॥ 13-170-21(88272)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः॥ 170 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-170-7 तत्त्ववित्त्वनहंबुद्धिस्तीर्थप्रवरमुच्यते इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|